|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.179. अध्यायः 179
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति कीटोपाख्यानकथनम्॥ 1 ॥ कीटेन व्यासंप्रतति स्वपूर्वजन्मवृत्तान्तकथनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
अकामाश्च सकामाश्च ये हताः स्म महामृधे।
कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह॥ 13-179-1(88603)
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे।
जानामि चाहं धर्मज्ञ प्राणत्यागं सुदुष्करम्॥ 13-179-2(88604)
समृद्दे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे।
`संसारेऽस्मिन्सदाजाताः प्राणिनोऽभिरताःकथम् '
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः॥ 13-179-3(88605)
भीष्म उवाच। 13-179-4x(7383)
समृद्धे वाऽसमृद्धे वा शुभे वा यदि वाऽशुभे।
संसारेऽस्मिन्समे जाताः प्राणिनः पृथिवीपते॥ 13-179-4(88606)
निरता येन भावेन तत्र मे शृणु कारणम्।
सम्यक्चायमनुप्रश्नस्त्वयोक्तस्तु युधिष्ठिर॥ 13-179-5(88607)
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप।
द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर॥ 13-179-6(88608)
ब्रह्मिभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा।
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि॥ 13-179-7(88609)
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम्।
सर्वज्ञस्त्वरितं दृष्ट्वा कीटं वचनमब्रवीत्॥ 13-179-8(88610)
कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे।
क्व च वासस्तदाचक्ष्व कुतस्ते भयमागतम्॥ 13-179-9(88611)
कीट उवाच। 13-179-10x(7384)
शकटव्रजस्य महतो घोषं श्रुत्वा भयं मम।
आगतं वै महाबुद्धे स्वन एष हि दारुणः॥ 13-179-10(88612)
श्रूयते तु स मा हन्यादिति ह्यस्मादपक्रमे।
श्वसतां च शृणोम्येनं गोवृषाणां प्रतोद्यताम्॥ 13-179-11(88613)
वहतां सुमहाभारं सन्निकर्षे स्वनं प्रभो।
नृणां च संवाहयतां श्रूयन्ते विविधाः स्वनाः॥ 13-179-12(88614)
वोढुमस्मद्विधेनैव न शक्यः कीटयोनिना।
तस्मादतिक्रमाम्येष भयादस्मात्सुदारुणात्॥ 13-179-13(88615)
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम्।
अतो भीतः पलायामि गच्छेयं नापदं यथा॥ 13-179-14(88616)
भीष्म उवाच। 13-179-15x(7385)
इत्युक्तः स तु सं प्राह कुतः कीट सुखं तव।
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे॥ 13-179-15(88617)
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून्।
नाभिजानासि कीट त्वं श्रेयो मरणमेव ते॥ 13-179-16(88618)
कीट उवाच। 13-179-17x(7386)
सर्वत्र निरतो जीव इहापि च सुखं मम।
चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम्॥ 13-179-17(88619)
इहापि विषयः सर्वो यथादेहं प्रवर्तितः।
मनुष्यास्तिर्यगाश्चैव पृथग्भोगा विशेषतः॥ 13-179-18(88620)
अहमासं मनुष्यो वै शूद्रो बहुधनः प्रभो।
अब्रह्मण्यो नृशंसश्च कदर्यो बुद्धिजीवनः॥ 13-179-19(88621)
वाक्श्लक्ष्णो ह्यकृतप्रज्ञो द्वेष्टा विश्वस्य कर्मणः।
मिथोगुप्तनिधिर्नित्यं परस्वहरणे रतः॥ 13-179-20(88622)
भृत्यातिथिजनश्चापि गृहेऽपर्यशितो मया।
मात्सर्यात्स्वादुकामेन नृशंसेन बुभुक्षता॥ 13-179-21(88623)
देवार्थं पितृयज्ञार्थं न च श्राद्धं कृतं मया।
न दत्तमन्नकामेषु दत्तमन्नं लुनामि च॥ 13-179-22(88624)
गुप्तं शरणमाश्रित्य भयेषु शरणागतान्।
त्यक्त्वाऽकस्मान्निशायां च न दत्तमभयं मया॥ 13-179-23(88625)
धनं धान्यं प्रियान्दारान्यानं वासस्तथाऽद्भुतम्।
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम्॥ 13-179-24(88626)
ईर्ष्युः परसुखं दृष्ट्वा अन्यस्य न बुभूषकः।
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः॥ 13-179-25(88627)
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया।
स्मृत्वा तदनुतप्येऽहं हित्वा प्रियमिवात्मजम्॥ 13-179-26(88628)
शुभानां नाभिजानामि कृतानां कर्मणां फलम्।
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया॥ 13-179-27(88629)
सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः।
अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः॥ 13-179-28(88630)
कर्मणामेव चैवाहं सुखाशामिव लक्षये।
तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन॥ ॥ 13-179-29(88631)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः॥ 179 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-179-19 कदर्यो वृद्धिजीवनः इति झ.पाठः॥ 7-179-25 न बुभूषकः अनैश्वर्यमिच्छन्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|